id
stringlengths
3
5
url
stringlengths
39
730
title
stringlengths
1
85
text
stringlengths
26
171k
794
https://sa.wikipedia.org/wiki/%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83
धर्मशास्त्रप्रविभागः
वेदोऽखिलो धर्ममूलम् । वेदाः एव जगतः प्रथमं साहित्यम् | एते अपौरुषेयाः नाम मानवलिखिताः न इति विश्वासः | अखिलो वेदः मानवधर्मस्य मूलम् | ऋग्वेद यजुर्वेद सामवेद अथर्ववेद अन्य ग्रन्थ : ब्राह्मणग्रन्थ आरण्यक उपनिषद सूत्र पुराण भगवद्गीता महाभारत रामायण REDIRECT वेदाः धर्मशास्त्रम् श्टब्स् संस्कृतसम्बद्धाः सर्वे अपूर्णलेखाः संचित्रसारमञ्जूषे योजनीये
795
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE
भगवद्गीता
गीतोपदेशः भगवता गीता भगवद्गीता। एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते। श्रीकृष्णः अत्र उपदेशकः श्रोता अर्जुनः। वैदिकसनातनवर्णाश्रमधर्मावलम्विनां हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता। गीतायाम् अष्टादश अध्यायाः सन्ति। अस्याः मोक्षशास्त्रम् ,ब्रह्मविद्या गीतोपनिषत्, इत्यादिनि नामानि अपि सन्ति। प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते। कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः। वैदिकवाङ्मये श्रीमदभगवद्गीतायाः स्थानम् श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम्। वेदवत् त्रिकाण्डात्मकत्वात्,समस्तवेदार्थ सारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च। प्रसिद्धिश्चैतादृश्येव – गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता॥ सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्सः सुधीर्भोक्ता गीतामृतदुहे नमः॥ वासुदेव-पार्थयोः संवादरूपायाः गीताया अवसाने अर्जुन उवाच— "नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव"। अनेन मोहनाशः जातः यत् तदेव प्रश्नप्रतिवचनेन प्राप्तं सर्वशास्त्रार्थज्ञान फलमेतदिति निश्चितं दर्शितं भवति। यतो ज्ञानान्मोहनाश आत्मस्मृतिलाभश्चेति। तथा च श्रुतावनात्मविच्छोचामीत्युपन्यस्यात्मज्ञानेन सर्वग्रन्थिविप्रमोक्ष उक्तः भिद्यते हृदयद्रन्थिस्तत्र को मोहः कः शोकः एकत्वमनुपश्यतः इति च मन्त्रवर्णः। एतस्याः गीतायाः शास्त्रत्वे भगवतः स्ववचनमेव प्रमाणम्- इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ। एतद्बुध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत॥ अत्र शंकरभगवत्पादाः – इत्येतद् गुह्यतमं गोप्यतममत्यन्तरहस्यमित्येतत्। किं तच्छास्त्रम्। तच्छास्त्रम्। यद्यपि गीताख्यं समस्तं शास्त्रमुच्यते तथाप्यमेवाध्याय इह शास्त्रमित्युच्यते स्तुत्यर्थं प्रकरणात्। सर्वो हि गीताशास्रार्थोयऽस्मिन्नाध्याये समासेनोक्तो न केवलं सर्वश्च वेदार्थ इह परिसमाप्तो यस्तं वेद स वेदवित् वेदैश्च सर्वैरहमेव वेद्यः इति चोक्तम्। इदमुक्तं मया हेऽनघापाप। एतच्छास्रं यथादर्शितार्थं बुदध्वा बुद्धिमान् स्यात् भवेन्नान्यथा। कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन स कृतकृत्यो विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्वविदिते कृतं भवेदित्यर्थः। न चान्यथा कर्त्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः। सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते। इति चोक्तम्। एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः। प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा॥ इति च मानवं वचनम्। यत् एतत्प्रमार्थतत्त्वं मत्तः श्रुतवानसि ततः कृतार्थस्त्वं भारतेति”। भाष्यस्योपोद्धाते तदिदं गीतशास्त्रं समस्तवेदार्थ-सारस्ंग्रहभूतं दुर्विज्ञेयार्थं तदर्थाविष्करणायानेकै विवृतपदार्थवाक्यार्थ-न्यायमत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्याहं विवेकतोऽर्थ निर्धारणार्थं संक्षेपतो विवरणं करिष्यामि। आचार्याः अस्याः शास्त्रत्वे न विप्रतिपद्यन्ते। आचार्यान्तराणामत्र सम्मतिरेव- नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितोज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार। ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद्वेदार्थज्ञानाच्च् संसारे क्लिश्यमानानां वेदानधिकारिणं स्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदार्थोपबृंहितां तदनुक्त केवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनामवगाह्मानवागाह्यरुपां केवलभगवत्स्वरुपपरां परोक्षार्थां महाभारतसंहितामचीक्लृपत। तच्चोक्तं- <div class="smaller"> लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम्। वेदार्थसमधीकारार्जितं च स्रियादिकम् ॥१॥ अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम्। ततः प्रसन्नो भगवान् व्यासो भूत्वा च तेन च ॥२॥ अन्यावताररुपैश्च वेदनुक्तार्थभूषितम्। केवलेनात्मबोधेन दृष्टं वेदार्थ संयुक्तम् ॥३॥ वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम्। भारतं पञ्चरात्रं च मूलरामायणं तथा ॥४॥ पुराणं भागवतं चेति सम्भिन्नः शास्त्रपुङ्गवः- इति नारायणाष्टाक्षरकल्पे॥ ब्रह्माऽपि तन्न जानाति ईषत्सर्वोऽपि जानति। बह्वर्थमृषयस्तत्तु भारतं प्रवदन्ति हि इत्युपनारदीये ॥५॥ ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह। यस्मिन् दशर्थाः सर्वत्र न ज्ञेयाः सर्व जंतुभिः ॥६॥ - इति नारदीये भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम्। दशावतारार्थं सर्वत्र केवलं विष्णुबोधकम् ॥७॥ परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं च यत् –इति स्कान्दे। तत्र च वासुदेवार्जुन संवादरुपां सर्वभारतार्थसंग्रहां भारतपारिजातमधुभूतां गीतामुपनिवबंध। तच्चोक्तं- ॥ भारतं सर्वशास्रेषु भारते गीतिका वरा॥ विष्णो सहस्त्रनामापि ज्ञेयं पाठयं च् तद्वयम् “ इति महाकौर्म्ये ”॥ सारथ्यमर्जुनस्यादौ कुर्वन्गीतामृतं ददौ। लोकत्रयोपकाराय तस्मै कृष्णात्मने नमः ॥४॥ मलनिर्मोचनं पुंसां जलस्नानं दिने दिने। सकृद्गीताम्भसि स्नानं संसारमलनाशनम्॥ अकृत्यमपि कुर्वाणो भुञ्जानोऽपि यथा तथा। कदाचिन्नारकं दुःखं गीताध्यायी न पश्यति। वेदोदघिप्रमथितं वासुदेव समुदधृतम्। सन्तः पिवन्ति सततं गीतामृतरसायनम् ॥ एकं शास्रं देवकीपुत्रगीतमेकोदेवो देवकीपुत्र एव। एको मन्त्रो तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा॥ गीतैव तत्त्वहितायोर्यथावच्छासनात् शास्त्रम्। उपनिषत्समाधिना सिद्धव्यवहारनिरुढेः स्रीलिङ्गनिर्देशः। एतेन शास्त्रान्तरादस्य शास्त्रस्याधिक्यं व्यञ्जितम्। स्वयं च महाभारते महर्षिणोक्तम् –“अत्रोपनिषदं पुण्यं कृष्णद्वैपायनोऽब्रवीत्” (म० भा०, आ० प०, १४. २७९) इति उक्तं चाभियुक्तैः –“ यस्मिन् प्रसादसुमुखे कवयोऽपि ये ते शास्राण्यशासुरिहतन्महिमाश्रयाणि। कृष्णेन तेन यदिह स्वयमेवगीतं शास्त्रस्य तस्य सदृशं किमिवास्ति शास्त्रम्।" यद्यपि गीताशास्रे शास्त्रपदं श्रुत्यर्थे प्रयुक्तम् –तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ तथापि शास्त्रत्वन्त्वस्याः स्मृतित्वेऽपि न विरुध्यते। प्राय आचार्या स्मृतिनाम्ना गीताश्लोकानुद्धरन्तो दृश्यन्ते वेदार्थसंग्राहकत्त्वान्नास्या श्रुतित्वम। वेदा एव श्रुति पदाभिलाप्या इति गीतायाः स्मृतित्वं शास्त्रत्वं च भगवदुक्तत्वादागमशास्त्रवत्। वर्णाश्रमधर्मप्रतिपादकत्वाच्च मन्वादिवत्। गीताशास्त्रेऽपि वेदवत् प्रवृत्तिनिवृत्तिलक्षणं धर्मद्वयमपि प्रतिपादितम्। तत्रापि भक्ति-ज्ञान-कर्मयोगानामेकत्र समन्वयेनाखिललोककलयाणपरत्व सुलभत्वञ्चाधिगम्यते। अनुबन्धचतुष्टयवत् शास्त्रमेतदिति विज्ञापितं भवति, सर्वेषामधिकारित्वबोधनात्। शास्त्रस्यास्य सम्बन्धाभिधेयप्रयोजनानि-मोक्ष इति निः श्रेयसप्रयोजनवत्। किं च पुरुषार्थान्तराणामविरोधेन परमप्रयोदनस्यैव मुख्य्त्वात्। स च मोक्षः परमार्थ स्वरुपबोधात् गीताशास्त्रप्रतिपादितात्। परमार्थः परमात्मा, तत्परमात्मस्वरुपावबोधस्यास्य च शास्त्रस्य साध्यसाधनलक्षणः सम्बन्धः इति अधिकारि-प्रयोजनसम्बन्धाभिधेयविशिष्टं गीताशास्त्रम। अत्र शंकरभवगत्पादाः – इमं द्विप्रकारं धर्म निः श्रेयसम्प्रयोजनं परमार्थतत्त्वञ्च वासुदेवाख्यं परब्रह्मभिधेयं विशेषतः अभिव्यञ्जयत् विशिष्टप्रयोजनसंबन्धाभिधेयवत् गीताशास्त्रम्। यतः तदर्थविज्ञानेन समस्तपुरुषार्थसिद्धिः। एवं सकलपुरुषार्थसिद्धये सर्वेषां श्रेयोऽर्थिनां गीताशास्त्रस्य पठनं श्रवणं पाठनं तात्पर्यबोधं विनाऽपि कल्पते इति गीतोक्तं प्रमाणम्। ननु ज्ञानकाण्डात्मिका उपनिषदः यासां सारसंग्रहभूता गीता- सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥ इति कथं समस्तवेदार्थसारसंग्रहात्मिकेति। किञ्च त्रिगुणात्मकत्वात् त्रैगुण्यविषया वेदा निस्त्रैगुण्योभवार्जुन इति चेन्न, काण्डत्रयात्मिकायाः गीतायाः भगवदुक्तत्वादभक्तियोगे कर्मज्ञानयोः समन्वितत्वाच्च। : यावानर्थ उदपाने सर्वतः सम्प्लुतोदके। तावानर्थो वेदेषु ब्राह्मणस्य विजानतः॥ इति सार्थक्यं द्विविधधर्मोपदेशस्येति सर्वशास्त्रो पजीव्यत्वेन गीताया सर्वातिशायि महात्म्यम्। उपनिषदस्तावद्रहस्यविद्यात्वेन प्रसिद्धाः गीताशास्त्रं तु गुह्यतममिति तत्रैवावधृतत्वात्। अतः कृतकृत्यता चरितार्थता समग्रस्य जीवनस्य तदा यदा हि गीताशास्त्रमनुसृत्य यथोक्त कर्मयोगमाश्रित्य ज्ञानयोगेन सह भगवद्भक्तियोगेन जीवनस्य परमपुरुषार्थः साधितो भवेत्। ऐतिहासिकं सैद्धान्तिकं सामाजकञ्च महत्त्वम् पूर्वोक्तदिशा विचार्यमाणे श्रीमदभगवद्गीतायाः शास्त्रत्वं महत्त्वञ्चोपनिषद्दभ्योऽप्यधिकतरं विद्यते इति वक्तुं शक्यते। गुह्यात्गुह्यतरं ततोऽपि गुह्यतमं शास्त्रमिति प्रमाणितं भवति समेषामाचार्याणां वचनैः। यथा गूढार्थदीपिकायामेव- अतिगम्भीरस्य गीताशास्त्रस्याशेषतः पर्यालोचनक्लेशनिर्वृत्तये कृपया स्वयमेव तस्य सारं संक्षिप्य कथयति – सर्वगुह्यतममिति । पूर्वं हि गुह्यात् – कर्मयोगाद् गुह्यतरं ज्ञानमाख्यातम्, अधुना तु कर्मयोगात्त-फलभूतज्ञानाच्च सर्वस्मादतिशयेन गुह्यं रहस्यं गुह्यतमं परमम् सर्वतः प्रकृष्टं मे मम वचः – वाक्यं भूय-तत्र तत्रोक्तमपि त्वदनुग्रहार्थ पुनर्वक्ष्यमाणं श्रृणु। अपि च स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः सर्वकर्माण्यपि सदा कुर्वाणो मदव्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥ चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥ अत्र मधुसूदनाचार्यः- यः पूर्वौक्तैः कर्मभिः शुद्धान्तः करणः, सोऽवश्यं भगवदेकशरणो, भगवदेकशरणतापर्यन्तत्वादन्तः करणशुद्धेः। एतादृशश्चेद ब्राह्मणः संन्यासप्रतिबन्धरहितः सर्वकर्माणि संन्यस्यतु नाम, संसारविमोक्षस्तु तस्य भगवदेकशरणस्य भगवत्प्रसादादेव। एतादृशश्चेत्क्षत्रियादिः, संन्यासाधिकारी, स करोतु नाम कर्माणि, किंतु मदव्यपाश्रयः अहं भगवान् वासुदेव एव व्यपाश्रयः शरणं यस्य, स मदेकशरणो मय्यर्पितसर्वात्मभावः संन्यासाधिकारात् सर्वकर्माणिसर्वाणि कर्माणि वर्णाश्रमधर्मरुपाणि लौकिकानि, प्रतिषिद्धानि वा सदा कुर्वाणो मत्प्रसादात् परमेश्वरस्यानुग्रहादवाप्नोति हिरण्यगर्भवन्मद्विज्ञानोत्पत्या शाश्वतं नित्यं पदं वैष्णवमव्ययम्-परिणामित्यर्थः। एतादृशो भगवदेकशरणः करोत्येव न प्रतिषिद्धानि कर्माणि, यदि कुर्यात् तथाऽपिमत्प्रसादात्प्रत्यवायानुत्पत्या मद्विज्ञानेन मोक्षभागभवतीति भगवदेकशरणतास्तुत्यर्थं‘सर्वकर्माणि सर्वदा कुर्वाणोऽपी’ त्यनूद्यते। यस्मान्मदेकशरणतामात्रं मोक्षसाधनम्, न कर्मानुष्ठानम्, कर्मसंन्यासो वा। तस्मात् क्षत्रियस्त्वम्- चेतसा विवेकबुद्धया सर्वकर्माणि-दृष्टादृष्टार्थानि मयीश्वरे संन्यस्य-“यत्करोषियदश्नासी” त्युक्तन्यायेन समर्प्यमत्परः अहं भगवान् वासुदेव एव परः प्रियतमो यस्य स मत्परः सन् बिद्धि योगम्-पूर्वोक्तसमत्वबुद्धिलक्षणं योगं बन्धहेतोरपि कर्मणो मोक्ष-हेतुत्वं सम्पादकमुपाश्रित्य- अनन्यशरणतया स्वीकृत्य मच्चित्तः मयि भगवति वासुदेव एव चित्तं यस्य,न राजनि, कामिन्यादौ वा, स मच्चित्तः सततं भव। तदेवं प्रमाणितं वेदितव्यं यद् भगवद्गीता कर्मैव पूजा इत्युपदिशति। सर्वेषां मानवानां स्वभानानुकूलं कर्म एव भगवदाराधनरुपेण ग्राह्यमिति हि सिद्धान्तः। जीवननिर्वाहायावश्यकं कर्म सहजं स्वभावनियतं च – नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः। कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते॥ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः॥ यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर॥ ततः कर्मजन्यशुद्धयभावे बहिर्मुखः – इति यस्मात् क्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति, अपितु लौकिकवैदिक कर्मानुष्ठानव्यग्र एव तिष्ठति। तस्माद शुद्धचित्तस्य संन्यासो न सम्भवतीत्यर्थः कस्मात् पुनरविद्वान्कर्माण्यकुर्वाणो न तिष्ठति। हि यस्मात् सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्रएव सन् प्रकृतितो जातैरभिव्यक्तै कार्याकारेण सत्त्वरजस्तमोभिःस्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लैकिकं वैदिकं वा कार्यते। अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः। यतः स्वभाविका गुणाश्चालकाः अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न संभवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा संभवतीत्यर्थः॥ यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाङ् न भवति। यतः- यो हि विमूढात्मा रागद्वेषादि दूषितान्तः करण औत्सुक्यमात्रेण कर्मेन्द्रयाणि वाक्पाण्यादीनि संयम्य निगृह्य, बहिरिन्द्रियैः कर्माण्यकुर्वन्निति यावत्। मनसा रागादि प्रेरितेन्द्रियार्थाञ्छब्दादीन नत्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्याभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्धयभावेन फलायोग्यत्वात्पापाचार उच्चते "त्वं पदार्थविवेकाय संन्यासः सर्वकर्मणाम्। श्रुत्येह विहितो यस्मात्तत्यागी पतितो भवेत्। इत्यादि धर्म शास्त्रेणा। अत उपपन्नं न च संन्यसनादेवांशुद्धान्तः करणः सिद्धिं समधिगच्छतीति। औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाशास्त्रंकुर्यात्। यस्मात् तु शब्दोऽशुद्धान्तः करण संन्यासिव्यतिरेकार्थः। इन्द्रियाणि ज्ञानेन्द्रियाणि श्रोत्रादीनि मनसा सह नियम्य पापहेतु शब्दादिविषयासक्तेर्निवर्त्य, मनसा विवेकयुक्तेन नियम्येति वा, कर्मेन्द्रियैर्वाक्पाण्यादिभि कर्मयोगं शुद्धिहेतुतया विहितं कर्मारभते करोत्यसक्तः फलाभिलाषशून्यः सन यो विवेकी स इतरस्मानमिथ्याचाराद्विशिष्यते। परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति। हे अर्जुन, आश्चर्यमिदं पश्य यदेकं कर्मेन्द्रियाणि निगृयज्ञानेन्द्रियाणि व्यापारयन् परमपुरुषार्थ् भगभवतीति यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियै-त्वं प्रागननुतिष्ठत शुद्धिहेतुकर्मा नियतं विध्युददेशे फलसम्बन्धशुन्यतया नियतनिमित्तेन कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु कुर्विति मध्यमपुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम्। कस्मादशुद्धान्तः करणेन कर्मैव कर्त्तव्यम् हि यस्मात् अकर्मणोऽकरणात्कर्मैअ ज्यायः प्रशस्यतरम्। न केवलं कर्माभावे तवानतः करणशुद्धिरेव नद्धयेत किन्तु अकर्मणो युद्धादिकर्मर्हितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्व लक्षणेन सिध्येत्। तथा च प्रागुक्तम्। अपि चेत्यन्तः करण शुद्धि समुच्चयार्थः “ कर्मणा बध्यते जन्तुः” इति स्मृतेः। सर्वं कर्मबान्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह-यज्ञः परमेश्वरः "यज्ञो वै विष्णुः” इति श्रुतेः। तदाराधनार्थं यत्कर्म क्रियते तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकःअ कर्माधिकारी कर्मबन्धनः कर्मणाबध्यते नत्वीश्वराराधनार्थेन। अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय, त्वं कर्मण्यधिकृतो मुक्तसंगः सन्समाचर सम्यक् श्रद्धादिपुरः सरमाचर॥ मानवसमाजस्य श्रेयस्कामेन भगवता वासुदेवेन सनातन वैदिकधर्मद्वयमुपदिशता नानाप्रपञ्चपूर्णे जीवने सार्वजनीनाः समस्याः शास्त्रीयरीत्या समाहिताः। न केवलमर्जुनायापितु सर्वेभ्यः, नकेवलं युद्धविषयेऽपि तु सम्पूर्णजीवनस्य येऽपि कार्याकार्ये तदव्यवस्थार्थं शास्त्रमेव प्रमाणीकृतम्। सरलया भाषया, नादमधुरया, रसात्मिकया पदावल्या, सत्तर्कप्रतिष्ठितया, प्रतिपत्तिबन्ध्यादि दोष रहितया, छ्न्दोमय्या पदसंहत्या सहजौजस्विन्या शैल्या भ्रान्तिशून्यया रुचिपूर्णया भारत्या शिष्टसंस्कृत भाषया सुबोधिन्या सकलार्थबोधनसमर्थया स्वाभाविक्या छन्दोनिबद्धप्रणाल्या कठिनतरं विषयजातं गम्भीरदार्शनिकैविवादास्पदं सतप्रतिपाद्यविषयमपि सुबोधगम्यं सुलभं करोति विराजते चास्याः गीतायाः सर्वविध माहात्म्यं प्रासंगिकता चाद्यत्वेऽपि यथापूर्वम्। प्राचीनाव्याख्यातारः, आधुनिकव्याख्यातारश्च भगवदगीता सर्वैरेव स्वकीयगुणविशेषैः सम्यकतया प्रतिष्ठिता वैदिकपरम्परायाः सम्प्रदायकृत्सु प्रमुखाचार्येषु भाष्यकारेषु टिकाकारेषु तत्तच्छास्त्रकारेषु च। सा हि वेदान्तप्रस्थानत्रयीनध्ये परिगणिता व्याख्यातृभीश्च व्याख्याता स्वस्वसम्प्रदायसिद्धान्तानुसारेण। तथापि न कृतोपसंहाराऽस्याअर्थगभीरा प्रभूतप्रभावा वाग्धारा। न केवलं भारतेऽपि तु विश्वस्मिन् जगतीतले भाषान्तरेष्वपि विद्वद्वर्यैव्याख्याताऽनूदिता प्रचारिता प्रसारिताऽधिताऽध्यापिता च। नाविदितं कस्यापि प्रबुद्धजनस्यैतस्याः सर्वोत्त्कृष्टं महत्त्वमुपयोगित्वं च। प्राचीनैराचार्यैराधुनिकैश्च विद्वदभिः समानभेव सम्मानिताऽभिनन्दिता परः शतैः प्राचीनैः साम्प्रदायिकैराचार्यैर्यथा स्वपक्षेनीता, व्याख्याता, सादरं परिशीलिता, तथैवं ततोऽप्यधिकतरमद्यतनी मानवता भगवद्गीतोपदेशसापेक्षेति प्रवृत्तिः प्रसृताऽवलोक्यते। अतः विदुषाम्-संख्येयत्वात्, अल्पज्ञत्वाच्चास्माभिरत्र केषाञ्चिदेवाचार्यप्रवराणां नामोल्लेखः संक्षिप्तश्च परिचयोऽत्र दिग्दर्शनत्वेन क्रियते। सर्वप्रथमं श्रीशंकरभगवत्पादाचार्यप्रणीतं भाष्यं ज्येष्ठं पुरोजन्मतया गुणैश्च इति प्रसिद्धम्। एतदभाष्यावलोकनेन विज्ञायते यत् भाष्यान्तरं वृत्त्यन्तरञ्चासीत् पुरा। शांकरभाष्यं तु आनन्दगिरिव्याख्यायुतम्। ततस्तु शांकरसम्प्रदायस्याद्वैतमतानुगामिभिः बहुभिराचार्यैः टीकोपटीकाः विरचिताः। तत्रैव मधुसूदनसरस्वतीयतिवरोऽपि प्रवेशनार्हतीति। अद्वैतमतेनैता व्याख्याः सर्वा एव् भगवद्गीताया आनुगुण्यं तथा नैव वहन्ति यथाऽन्ये वैष्णवसम्प्रदायाचार्या इति विदुषां विनिर्णयः। मधुसूदनाचार्यास्तु अद्वैतानुसारि व्याख्यानं कुर्वाणाऽपि भगवतधर्मानुसारिणीं व्याख्यां प्रस्तुवन्ति। अद्वैतव्याख्याखण्डनपरा व्याख्याः प्रमुख वैष्णवाचार्यादरीदृश्यन्ते। तत्र प्रमुखाः रामानुजाचार्याः, विशिष्टाद्वैतवेदान्तसम्प्रदाअयप्रतिष्ठापकाः स्वसिद्धान्तानुसारं भागवतधर्ममेव गीतोक्तं याथातथ्येन व्याख्याव्याजेन स्थापयाम्बभूवुः। ततः ताप्तर्यचन्द्रिका श्रीवेङ्कटनाथप्रणीताऽपि वैष्णवधर्मोदबोधिनी। द्वैतवेदान्तनुसारिणी व्याख्या मध्वाचार्यैः आनन्दतीर्थापराभिधैरर्थगभीरा दुरवगम्या च। तस्या दुरुहार्थावद्योतिनि “प्रमेयदीपिका” जयतिर्थविरचिता विराजते। वेङ्कटनाथकृता व्याख्या “ब्रह्मानन्दगिर्याख्यान" नामिका माध्व मतं रामानुजमतं मधुसूदनमतञ्च निराकर्तुमुत्सहते। बल्लभसम्प्रदानुसारिव्याख्या तु "तत्त्वदीपिका” बल्लभलाल्लोल्लासिता, “अमृततरङिगणी” पुरुषोत्तमजीप्रणीतेति टीकाद्वयं विराजते। सम्पूर्णमहाभारतटीकाकर्तुः नीलकण्ठस्य भावदीपाख्यटीकाऽपि महदुपकारिणी। सापि अद्वैतमतानुसारिणीति। यामुनमुनिप्रणीतो गीतार्थसंग्रहः सर्वथा भागवतमतं निर्वहति। पैशाचभाष्यमपि केनापि शापवशात् गीताश्रवणापराधकुपितस्य भगवतः अवाप्तपिशाच भावेन हनूमताऽन्येनार्वाचीनेन हनूमन्नाम्ना वा विदुषा कृतम्। एतदतिरिक्ता अपि सामञ्जस्येन दर्शनशास्त्रीयविषयप्रतिपादनपराः व्याख्या उपलभ्यन्ते। तथाहि श्रीधरीयसुबोधिनी” प्रायोऽद्वैतमतं प्रतिपादयति। यत्र कुत्रापि शंकरमताद्भिद्यते च। अपरा टीका “भाष्योत्कर्षदीपिका खलु सर्वतोभावेन शांकरभाष्यार्थमेवाविष्करोति, स्वतन्त्रव्याख्यां च प्रस्तौति निराकरोति च सामान्यतः नीलकण्ठीयव्याख्यां, श्रीधरीव्याख्यां अभिनवगुप्तव्याख्यां च, विशेषतस्तु मधुसूदनसरस्वतीस्वमिकृतां गूढार्थदीपिकां निरस्य “भाष्यविरुद्धमेतदि” ति स्वस्वानादरं प्रकटयति। श्रीमदभिनवगुप्तपादाचार्याणामन्या लधुकायाऽपि निर्भिन्नार्थिका शैवमतोपस्थापिका चेति प्रतीयते। एतदुक्तं भवति समस्तटीकानां सम्यगेवेक्षणेनेति यत् सर्वा अपि यास्सन्तीति टिकात्वेन भाष्यत्वेन प्रसिद्धास्ता सर्वा अपि नैकैकशः स्वातन्त्रयेण सम्भूय वा भागवादाशयं गीतावचननिगूढं प्रकाशयितुं पर्याप्ता इति। यतो हि पराचीनानां नवीनानां व्याख्यानानामावश्यकता मनुभवन्त आचार्या आधुनिका विद्वांसोऽपि स्वमतोपन्यासे स्वतन्त्राः सन्तोऽपि गीतोक्तिमनुरुन्धन्तोऽपि स्वपक्षस्थापने प्राचुर्येण प्रमाणमुपनस्यान्तोऽपि वैदिक परम्परा पद्धतिं न जहति। महच्चित्रमिदं यत्सर्वेषां मतोद्वलकानि वचनानि समुपलभ्यन्ते। स्वस्वमतोपस्थाने परमतप्रत्याख्यानं वा समाना प्रवृत्तिः सर्वेषाम्। वस्तुगत्या भगवदाशय प्रकाशनपरा निष्पक्ष वेदोदित सिद्धान्त प्रतिपादनपरा व्याख्यातारः विरला एव। भगवद्गीताया उपदेशबलेन भगवान् वासुदेवः रहस्यजातं सुबोधभाषया समन्वयपद्धत्या प्रकाशितवन्तः यतः सम्प्रदायानां पृथक् पृथकपरम्पराः राशीकृत्यैकत्र सम्प्रदाये वैदिकसम्प्रदाये शाश्वतात्मवादे सामञ्जस्येन संकलय्य न केवलमेकनिष्ठता मानीता भगवताऽपितु सर्वोपादेयतां सर्वजीवनोपयोगयोग्यतां प्रयोगार्हतां च प्रापिताः। तत्र प्राचीनाः प्रस्थानभेदाः वेद- सांख्ययोगपाञ्चरात्रपाशुपतप्रभृतयः वैदिकापरम्परायामेकीभवन्ति पूर्णतां प्राप्नुवन्ति एतां समन्वययात्मिकां दृष्टिं भगवतोऽनालोच्यानाश्रित्य को नाम व्याख्याता भगवदाशयं प्रकाशयितुं प्रभवेत्। सर्वथा भागवतमतमात्रप्रतिपादनपरायण एव तथा कर्तुं क्षमा याननुगृहणाति भगवान। एतामनन्तरोदित दृष्टिमवलम्ब्यालोच्यमाने सर्वा अपि शास्त्रीयाः टीकाः प्रामाण्यं भजन्त एव, किन्तु न पूर्णतया सामस्त्येन् वा। दार्शनिकविषये भवतु नाम भेदो मतमतान्तरं विलसतु नाम, तथापिधर्मसम्मतजीवनं यापयितुं, पुरुषार्थसिद्धयं दर्शनानामुपयोगं कर्तुम, आत्मोन्नतये परमपुरुषार्थावाप्तये, विश्वासं द्रढयितुं, परमार्थसत्तायामसंभावनाविपरीतभावनामपाकर्तुं भगवदाराधनामात्मोपासनां सफलां कर्तुं दार्शनिकमतभेदाः कथमपि साहाय्यं नाचरन्ति। कर्मनिष्ठा-ज्ञाननिष्ठा-भक्तिनिष्ठाः गीतोक्तदिशैव तत्र साधनत्वेनसमर्थाः भवन्ति। एवं विधो भगवतो वासुदेवस्य विष्कृष्टोऽभिप्रायो भवितुमर्हति। आधुनिकास्तु केचित् कर्मनिष्ठाप्रधानां व्याख्यां कुर्वन्ति, केचित्तु ज्ञाननिष्ठाप्रधानां, केचिच्च पुनः भक्तिनिष्ठाप्रधानामेव। तिलककृत "गीतारहस्यं” सुप्रसिद्धं महदुपकारि च। गांधीविरचिता टीकापि सामाजिकं महत्त्वमावहति। मतमेतदन्येऽप्याधुनिकाः आधुनिकदृष्टया पुष्णन्ति। सन्ति च विद्वांसो बहवोऽरविन्द्रप्रभृतयो येऽखण्डयोगप्रतिपादकाः सन्ति वैदिकात्मब्रह्मैक्यप्रतिपादनपरायणा अपि गीतोक्तिमाश्रित्य यथेष्टं दर्शनान्तरं प्रख्यापयन्ति। स्वतन्त्रदर्शनप्रतिपादनपरत्वात्तेषां तु न काऽप्यनुपपत्तिः। पूर्वापरसकलटीकासु प्रयुक्तां पद्धतिं तदनुरोधेनार्थाविष्करणाय स्वस्वम्प्रदायविशेषानुरोधेन च सिद्धान्तजातं पर्यालोच्यास्माकं मतेनेदं वक्तुं पार्यते यत् यतिवरो मधुसूदनसरस्वतीमहाभागो प्रशास्यतरो व्याख्याता। यतो हि भगावदगीतायाः या समन्वयात्मिकादृष्टिः स तामेवावलम्बते संगृहणाति च सर्वान् स्वोत्प्रेक्षाबलेन व्याख्याति स्वातन्त्रयेण। अतोऽधिकांशतः श्रद्धेयो व्याख्यातेति निष्पक्षपाततो वक्तुमुचितम्। यः उपनिषदां आत्मविचारः साङ्ख्यानां ज्ञनविचारः तथा सृष्टिक्रमः, उपासनाविवरणम् भगवद्विचाराः एतत् सर्वमपि बोधयति स एव भगवद्गीता। येभ्यः वेदाध्ययनाधिकारः नास्ति तेभ्यः अपि वेदान्तस्य तथा धर्मस्य सारं पाठयति एषा भगवद्गीता। व्यासरचितं महाभारतमेव गीतायाः स्रोतः। भगवद्गीतयाः प्रस्थानत्रये द्वितीयं स्थानं दत्तं वर्तते। परमज्ञानं, परिशुद्धभक्तिः, निष्कामकर्मणः एतेषां त्रयाणामपि मोक्षसाधकत्वं वर्तते इति भगवद्गीता अभिपैति। गीतायाः उपरि अचार्यत्रयाणां भाष्यं वर्तते। आधुनिकाः अपि बालगङ्गाधरतिलकः, मदनमोहनमालवीयः,महात्मा गान्धिः, अरविन्द घोष इत्यादयः गीतायाः माहात्म्यं मुक्तकण्ठेन श्लाघितवन्तः। गीतायाः उपरि एतेषां व्याख्यानं अपि उपलभ्यते। एतस्याः काव्यशैली, आध्यात्मिकाकर्षणात् जगति सर्वेपि प्रभाविताः अभूवन् इति कारणादेव सर्वासु भाषासु अद्य अनूदिता वर्तते। त्रयाः आचार्याः तेषां सिद्धान्तानुसारं गीतायाः भाष्यं रचितवन्तः। श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन अर्जुनाय ये उपदेशाः प्रदत्ताः, तेषां दिशा सुस्पष्टाऽस्ति। तत्र आचारमीमांसा विशेषेण प्रतिपादिता लक्ष्यते। श्रीमद्भगवद्गीता योगशास्त्रमप्यस्ति। अत्र योगशब्दः आचारव्यवहारयोरर्थे प्रयुक्तोऽस्ति। प्रत्येकम् अध्यायस्य पुष्पिकायां “ब्रह्मविद्यायां योगशास्त्रे” इत्युल्लेखेन विज्ञायते यद्गीतायाः मुख्यं प्रतिपाद्यं ब्रह्मविद्यायां प्रतिष्ठितस्य व्यवहारस्य प्रतिपादनमस्ति। अध्यात्मविवेचनमपि श्रीमद्भगवद्गीतायां सरलं स्प्ष्टञ्चास्ति। अध्यात्मक्षेत्रस्य सर्वेषां सिद्धान्तानां समन्वयं कृत्वा एकस्य निश्चितस्य सिद्धान्तस्य स्थापनायाः कार्यं कठिनं भवति, अतो भगवता शङ्करपादेन कथितम् –“तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतं दुर्विज्ञेयम्”। श्रीमद्भगवद्गीतायां यानि दार्शनिकतत्त्वानि विवेचितानि, तान्येवं प्रकारेणोल्लेखनीयानि सन्ति। ब्रह्मनिरुपणम् श्रीमद्भगवद्गीतायां ब्रह्मणः सगुण- निर्गुण-स्वरुपयोरभिन्नतायाः प्रतिपादनं कृतम् । गीताया अधोलिखितश्लोक एतदर्थम् उदाहर्त्तुं शक्यते – सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च॥ गीतोक्तम्तानुसारेण ब्रह्मैव इन्द्रियवृत्तिभिः लैकिकविषयाणाम् उपलब्धौ समर्थं भवति। अन्तरिन्द्रियाणां बहिरिन्द्रियाणां च व्यापारैः प्रतिभासितम् अपि दृश्यते। अथ च तत् स्वयं सर्वेन्द्रियेभ्यो विहीनं, सर्वविधदेहादिसम्बन्धेभ्यो रहितञ्च वर्तते। तत् अखिलं जगत् आदधाति तत्र निर्गुणमस्ति तथापि गुणानां भोक्ताऽस्ति। सत्त्वादिगुणानां परिणामभूतानां शब्दस्पर्शरुपादिविषयाणाम् उपभोक्ताऽपि भवति। तत् सत् अस्ति असच्चाप्यस्ति। उभयोः परेऽस्ति। तद् भूतानां बहिरन्तश्च विद्यते। तच्चरम् अचरं दूरस्थम् अन्तिकस्थं चास्ति। ब्रह्मणः सन्दर्भे उक्तप्रतिपादने विरोधो नास्ति, यतोहि देश –काल- निमित्तादिभिः उपाधिभिः रहितं तत् सर्वेषां विरोधानाम् अन्तोऽस्ति। इदमेव विचारशास्त्रस्य गूढसिद्धान्तोऽस्ति। ब्रह्मैव जगतः उत्पत्तिर्लयश्चास्ति। तदेव सर्वेषु प्राणिशरीरेषु तिष्ठति। गीतायां ब्रह्मणि तयोर्भावयोः सत्ता प्रतिपादिताऽस्ति अर्थात् ब्रह्मणो द्वौ भावौ स्तः- अपरभावः परभावश्च। अंशमात्रेण ब्रह्म योगमायया युक्तं भवति। तेनैवांशेन च तद् जगति अभिव्यक्तं भवति। ब्रह्म केवलं जगन्मात्रं नास्ति। तत्तुजगद् अतिक्रम्यापि वर्तते। तथापि जगतः प्रत्येकस्मिन् पदार्थे प्राणिनि च तस्यांश एव भासते। प्रकृतिनिरुपणम् श्रीमद्भगवद्गीतायाम् ईश्वरस्य प्रकृतिद्वयं वर्णितम् अस्ति। गीतोक्तानुसारेणा जडा प्रकृतिः चेतनः पुरुषश्चेति तत्त्वद्वयं सांख्यशास्त्रे अभिमतम्स्ति किन्तु तयोरतिरिक्तं परमतत्त्वमेव सर्वव्यापकम् अव्यक्तम् अमृतं चास्ति, येन चराचरमिदं जगत् उत्पद्यते। प्रकृतिपुरुषौ तु तस्यैव परमतत्त्वस्य व्यापकस्य ब्रह्मणो वा विभूतिमात्रस्वरुपौ भवतः। परमतत्त्वस्यैव आयत्ता प्रकृतिर्द्विधा वर्तते-अपरा प्रकृतिः, परा प्रकृतिश्चेति। अपरा प्रकृतिरेव क्षेत्रनाम्ना अथवा क्षरपुरुषसंज्ञया व्यवह्रियते। एवमेव परा प्रकृतिरपि क्षेत्रज्ञनाम्ना अथवा अक्षरपुरुष- संज्ञया विज्ञायते। परा प्रकृतिः जीवरुपा विद्यते, किन्तु अपरा प्रकृतिः जीवेतर-पदार्थरुपा वर्तते। सर्वेषां भौतिकपदार्थानां ग्रहणं क्षरपुरुषरुपेण कृतम्। अपरा –प्रकृतेरष्टौ भेदा गीतायां प्रतिपादिताः पृथ्वी, जलं, तेजः, वायुः आकाशः, मनः बुद्धिः अहङ्कारश्च। क्षेत्रस्य चतुर्विंशतिभेदानां प्रतिपादनमपि गीतायां विहितम् तद्यथा –पञ्चमहाभूतानि, अहङ्कारः, बुद्धिः, अव्यक्तप्रकृतिः, पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, मनः पञ्च तन्मात्राश्चेति। एषां चतुर्विंशतितत्त्वानामन्तर्भाव एव अपराख्यायां प्रकृतौ भवति। इच्छा –द्वेष- सुख-दुःखसंघात चेतना –धृति –प्रभृतयस्तु क्षेत्रविकारा विद्यन्ते। जीवतत्त्वनिरुपणम् (आत्मतत्त्वनिरूपणम्) जीवः चैतन्यात्मकोऽस्ति, अतः परमेश्वरस्य पराप्रकृतिरुपाः उत्कृष्टा विभूतिश्च वर्तते। जीव एव क्षेत्रज्ञोऽस्ति कृतकर्मणां फलभोगाय भोगायतनमिदं शरीरं क्षेत्रं भवति। क्षेत्रस्य ज्ञाता क्षेत्रज्ञ आत्माऽस्ति। क्षेत्रज्ञस्य आत्मनो वर्णनं गीतायां विस्तरेण विहितम्। आत्मा षड्विकारेभ्यो रहितोऽस्ति। स न कदापि उत्पद्यते, न म्रियते स सत्तात्मकोऽनुभूयते। तस्य कदाप्यभावो न भवति। जीवशरीरस्थोऽपि आत्मा अजन्मा, नित्यः, शाश्वतः, पुरातनश्च वर्तते। पुरातनोऽपि स नूतन एवास्ति। विनाशशीले प्राणिशरीरे विद्यमानस्यापि तस्य विनाशो न भवति। आत्मा स्वयं जीवशरीरस्य वरणं करोति, अस्योल्लेखः गीतायां निम्नप्रकारेण कृतम् – वासांसि जीर्णानि यथा विहाय नवानि गृह्वातिनरोऽपराणि। तथा शरीराणि विहाय] जीर्णान्यानि संयाति नवानि देही॥ आत्मा स्वयं अविकारी अस्ति किन्तु जीवशरीरं विकाररुपं विद्यते। यदा जीवः प्रारब्धकर्मणां फलभोगं कृत्वा निवर्तते तदा अन्यशरीरस्य प्राप्त्यर्थं आत्मानं प्रेरयति। फलतः आत्मा पूर्वशरीरं परित्यज्य अपरं जीवशरीरं गृह्णाति। एवञ्चेदम् आत्मा सर्वव्यापी, स्थिरः अचलः, सनातनश्चास्ति। जीव आत्मना सम्पृक्तो भवति, अतः यथा एक एव आत्मा सर्वेषु शरीररेषु विद्यते तथैव जीवोऽपि एक एव सर्वेषु शरीरेषु विद्यमानोऽस्ति। जीवस्य नानात्वं गीतायां सम्मतं नास्ति। तत्र लिखितम्स्ति –यथा एक एव सूर्यः सम्पूर्णं जगत् प्रकाशयति तथैव क्षेत्रज्ञः एकोऽपि सर्वाणि क्षेत्राणि भासयति। जीवः ईस्वरस्य सनातनः अंशो विद्यते। उक्तं च गीतायाम् –ममैवांशो जीवलोके जीवभूतः सनातनः”। जगत्तत्वनिरुपणम् पुरुषोत्तम्तत्त्वनिरुपणम् (६)ज्ञानयोगः (७) कर्मयोगः (८) ध्यानयोगः (९) भक्तियोगश्च । जगतः उत्पत्तिः स्थितिः लयश्चेति त्रयो विकारा ईशरादेव जायन्ते। ईश्वरः सर्वेषां प्राणिनां सनातनम् अविनाशि च बीजमस्ति। यथा बीजाद् वृक्षः उद्भवति, अन्ते च वृक्षो बीजे एव लीनो भवति, तथा इदं जगत् भगवतः उत्पद्यते, अन्ते च भगवत्येव विलीयते। जगतः अवान्तर-आविर्भावस्य कालः ब्रह्मणो दिनमुच्यते, अवान्तर-तिरोभावस्य कालश्च ब्रह्मणो रात्रिः कथ्यते। गीतोक्तम्तानुसारेण प्रकृतेरध्यक्षः ईश्वरोऽस्ति। ईश्वरस्य अध्यक्षतायां प्रकृतिः जगत् उत्पादयति। उक्तं च – मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगद्विपरिवर्तते॥ सर्वेषां चराचराणां प्राणिनां पदार्थानाञ्च उत्पत्तिस्थानं महद ब्रह्मास्ति। स एव जगद्बीजस्य विधाताऽस्ति। प्रकृतिः विश्वस्य मातृस्थानीया वर्तते, ईश्वरः पितृस्थानीयोऽस्ति। एवञ्चेत् प्रकृतेः स्थानं ईश्वरात् न्यूनमस्ति। जगदुत्पत्तिसन्दर्भे गीता सत्कार्यवादस्य समर्थनं करोति – नासतो विद्यते भावो नाभावो विद्यते सतः एवं श्रीमद्भगवद्गीतायाः विवेचनानुसारं इदं जगत् मायिकं काल्पनिकं वा नास्ति, अपितु सर्वथा सत्यं वास्तविकञ्च वर्तते। अध: भगवद्गीतायाः अध्यायसूची प्रदत्ता वर्तते । भगवद्गीता साङ्ख्यदर्शनं च । भगवद्गीतायां नैके साङ्ख्यविचारा: सन्ति। साङ्ख्यदर्शनस्य मुख्यग्रन्थ: साङ्ख्यकारिका। तेन सह भगवद्गीताया: तुलना कृता चेदिमानि साम्यस्थलानि लभ्यन्ते। भगवद्गीता साङ्ख्यकारिका च भगवद्गीता भागवतं च। गीताविस्तारो भागवतम्’इति उक्ति: प्रसिद्धा। अनया दृष्ट्या उभौ ग्रन्थौ यदा अवलोकितौ, तदा कतिचन साम्यस्थलानि दृष्टानि। तानि दृष्ट्वा उपरितना उक्ति: यथार्था अस्ति इति निश्चय: भवति। एतानि तानि साम्यस्थलानि- १) मृत्यो: अपरिहार्यत्वम्। भीष्मादिकानां मृत्युविषये शोक: न उचित:’ इति कृष्ण: गीतायां प्रतिपादयति। तदर्थं स: कारणं वदति - जातस्य हि ध्रुवो मृत्यु:। भ.गी. २.२७ एतद् एव तथ्यं भागवते एवं प्रतिपादितम् - मृत्युर्जन्मवतां वीर, देहेन सह जायते। अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुव:॥ भाग २) कृष्ण: परब्रह्मस्वरूप: । गीतायाम् अर्जुन: श्रीकृष्णस्य स्तुतिं करोति - परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।। १०.१२ ,१३ भागवते तु कृष्णजन्मन: पूर्वम् एव ब्रह्मदेव: सर्वान् देवान् भविष्यद्वृत्तं ज्ञापयति - वसुदेवगृहे साक्षाद् भगवान्पुरुष: पर:। जनिष्यते . . .॥ भाग १०.१.२३ कृष्णजन्मन: समनन्तरं वसुदेव: कृष्णम् उद्दिश्य वदति - विदितोऽसि भवान्साक्षात्पुरुष: प्रकृते: पर:। भाग १०.१.२३ ३) दिव्यं जन्म श्रीकृष्ण: अर्जुनाय गीतायां स्वस्य जन्म दिव्यम् अस्ति इति वदति -जन्म कर्म च मे दिव्यम्। भ.गी.४.९ एतद् दिव्यं जन्म कथं भवति इति वर्णनं भागवते प्राप्यते - देवक्यां देवरूपिण्यां विष्णु: सर्वगुहाशय:। आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कल:। तद्द्भुतं बालकमम्बुजेक्षणम् . . .। भाग १०.३ . ८ ,९ ,११ ४) सर्वधर्मपरित्याग: गीतायां भगवान् अर्जुनाय उपदिशति -सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच:।। भ.गी.१८.६६ अत्र सर्वधर्माणां त्याग: विहित:। सर्वधर्मेषु कस्य कस्य अन्तर्भाव: भवति इति भागवतं पठित्वा ज्ञायते।तत्र कृष्ण: उद्धवाय उपदिशति तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्। प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च। मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।यदि सर्वात्मभावेन मया स्या: ह्यकुतोभय:। भाग ११.१२.१५ ५) भक्ति-प्राधान्यम् गीतायां विश्वरूपदर्शनानन्तरं भगवान् वदति - नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां च यथा। भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप॥ भ.गी.११.५३ ,५४ अत्र सर्वेषु साधनेषु भक्ते: प्राधान्यम् उक्तम्। किं बहुना वेदादिकानि अन्यानि साधनानि मम प्राप्त्यर्थम् असमर्थानि, भक्ति: एका समर्था इति भगवत: आशय:। तथापि एतस्माद् वचनात् पूर्वं साधनानां तारतम्यविषये अर्जुनस्य प्रश्न: नास्ति। भागवते उद्धवमुखेन एष: प्रश्न: साक्षाद् वाचित:। ‘हे कृष्ण, ब्रह्मवादिन: नाना साधनानि वदन्ति। तत्र विकल्प: अस्ति अथवा मुख्यगौणभाव: अस्ति?’ (भाग. ११.१४.१ ) अनन्तरम् एतद् एव उत्तरं भववता दत्तम्- न साधयति मां योगो न साङ्ख्यं धर्म उद्धव। न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता॥ भक्त्याहमेकया ग्राह्य: श्रद्धयात्मा प्रिय:सताम्। भक्ति:पुनाति मन्निष्ठा श्वपाकानपि सम्भवात्। भाग ११.१४.२१ ,२२ ६) कृष्णमनस्कता कृष्णप्राप्ति: च। गीतायाम् अन्तत:भगवान् अर्जुनम् उपदिशति - मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे॥ भ.गी.१८.६५ अत्र मन्मना भव इति साधनम् उपदिष्टम्। तस्य फलं मामेवैष्यसि इति कथितम्।भागवते एतस्य साक्षात् निदर्शनं दृश्यते। यदा कृष्ण: न दृष्ट: तदा गोप्य: ह्ताशा: जाता:। ता: स्वगृहं प्रति निवृत्ता:। तदानीं तासां स्थिति: भागवते वर्णिता- तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिका:। तद्गुणानेव च गायन्त्यो नात्मागाराणि सस्मरु:। भाग १०.३०.४४ स्वगृहं विस्मृतवत्य: गोप्य: पुन: यमुनापुलिनम् आगता:!मन्मना भव तथा मामेवैष्यसि इति एतयो: फल-साधनसम्बन्ध: व्यासेन गोपीवृत्तेन साक्षात् दर्शित:।गीतोक्तसिद्धान्तस्य एतावद् मनोहरम् उदाहरणम् अन्यत्र न स्यात् ! ७) भक्तरक्षणव्रतम् गीतायां भगवान् अर्जुनाय प्रतिशृणोति - कौंतेय प्रतिजानीहि न मे भक्त: प्रणश्यति।भ.गी.९.१६ भागवते एषा प्रतिज्ञा एवम् - तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम्। गोपाये स्वात्मयोगेन इति मे व्रत आहित:। भाग ? ८) भक्तिमार्गे सामग्र्या: गौणत्वम् गीतायां श्रीकृष्ण: व्याहरति - पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं। भक्त्युपहृतमश्नामि प्रयतात्मन:।। भ.गी.९.१६ तत्र भागवते श्रीकृष्ण: एतद् एव वचनं दरिद्राय सुदाम्ने श्रावयति -पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मन:।। भाग १०.८१.४ ९) नवद्वारं पुरम् गीतायां देह्स्य कृते अयं शब्दप्रयोग: कृत:-सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन्न कारयन्। भ.गी.५. १३ एतस्य नवद्वार-पुरस्य विवरण तु गीतायां न लभ्यते। तद् विवरणं भागवते लभ्यते -नवद्वारं पुरम्। अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति। भाग ४. २९. ८ एतेषां नवानां द्वाराणां दिग्विभाग: अपि तत्र एव दत्त:- अक्षिणी नासिके आस्यमिति पञ्च पुर: कृता:। दक्षिणा दक्षिण: कर्ण उत्तरा चोत्तर: स्मृत:। पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते। भाग ४. २९. ९ सम्बद्धसम्पर्कतन्तुः (मूलश्लोकाः) भगवद्गीता भगवद्गीता सारमञ्जूषा योजनीया‎
817
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D
भारतम्
भारतम्, आधिकारिकतया भारतगणराज्यम् (Bhārata Ganarājyam) दक्षिण एशियायाः एकः देशः अस्ति । क्षेत्रफलेन सप्तमः बृहत्तमः देशः, विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः च अस्ति । दक्षिणे हिन्दमहासागरः, दक्षिणपश्चिमदिशि अरबसागरः, दक्षिणपूर्वदिशि बङ्गलखातेन च परिसीमितः अस्य पश्चिमदिशि पाकिस्तानदेशेन सह स्थलसीमाः सन्ति; उत्तरदिशि चीनदेशः, नेपालः, भूटानदेशः च पूर्वदिशि च बाङ्गलादेशः, म्यान्मारदेशः च। हिन्दमहासागरे भारतं श्रीलङ्कायाः मालदीवस्य च समीपे अस्ति; तस्य अण्डमान-निकोबार-द्वीपाः थाईलैण्ड्-म्यांमार-इण्डोनेशिया-देशयोः समुद्रीयसीमाम् अङ्गीकुर्वन्ति। भारतम्, आधिकारिकरूपेण भारतमहाराज्यम्, दक्षिणजम्बुद्वीपे स्थितं महाराज्यं वर्तते । जनसङ्ख्यादृष्ट्या एषः देशः विश्वे प्रथमः स्थाने विद्यते । विश्वे प्रसिद्धो जनतन्त्रयुतः देशः एषः । एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । हिन्दुधर्मः,बौद्धधर्मः,जैनधर्मः, सिखधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तमतम्, इस्लाम च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्टीण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । भारतस्य अर्थव्यवस्था विश्वे पञ्चमे स्थाने प्राप्नोति । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य । सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । भारतीयसंसदे सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति । भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्नः उद्गमं प्रति विविधाः पारम्पर्यकथाः प्रचलिताः वर्तन्ते । ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च ॥ उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ जय श्री राम । इतिहासः प्राचीनतं भारतम् भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुसंस्कृत्याः सभ्यथा जगति एव अत्यन्तं पुरातनसंस्कृतिः । ख्रिस्तपूर्व २०००-५०० अवधौ,वेदाः लिखितस्वरूपे अवलब्धाः। एतद् कालखंड "वैदिक युग" नाम्ना जाता । ख्रिस्तपूर्व ५०० अवधौ,१६ महाजनपदाः उभयताः । भौगोलिकता भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । अस्य सीमा पश्चिमे पाकिस्थानेन, ईशान्ये चीन-नेपाल-भूटानदेशैः परिवृता, ब्रह्मा (म्यान्मार्) बाङ्गला देशौ पूर्वदिशायां स्तः । श्रीलङ्का, मालाद्वीपः च हिन्दुमहासागरे भारतस्य समीपवर्तिनौ । परितः विद्यमानाः देशाः हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति । हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः पर्वतश्रेण्यः सन्ति । राजनीतिः अर्थव्यवस्था मुद्रास्थानांतरमानस्य भारतीयार्थव्यवस्था विश्वे षष्ठमे स्थाने एवं क्रयशक्त्यनुसारं तृतीये स्थाने अस्ति | भारतीयार्थव्यवस्था कृषिप्रधाना वर्तते। सर्वकारः भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत् । अस्तीदं २९ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली (भारतस्य राजधानी) इत्यत्र अस्ति। सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति।[१] संसदः विधायिकाशाखायां तु निम्नं सदनं लोकसभानाम अपि च उच्चं सदनं राज्यसभानाम तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अपि च 21 उच्चन्यायालयाः, जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं लोकतन्त्रं वर्तते। नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता। भारतीय-सूची भारत-जन-सूची सनातनधर्म: वास्‍तु योगः वेदान्‍त: हिन्‍दु-मन्‍दिरम् धर्म-संशोधनम् भारतस्य प्रधानमन्त्रिणः भारतस्य राष्ट्रपतयः भारतस्य नद्यः भारतीयक्रीडा भारतस्य सूर्यमन्दिराणि भारतस्य मण्डलानि स्वातन्त्र्यम्, महाराज्यत्वम् सप्तचत्वारिशदधिकनवदशशततमे(१९४७) क्रिस्ताब्दे आगस्ट्मासे पञ्चदशदिनाङ्के आङ्गल्शासनात् मुक्तं भारतं स्वातन्त्र्यम् अलभत । जवाहरलालनेहरुम्हाभागः स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री अभवत् । संविधानरीत्या पञ्चाशदधिकनवदशशत (१९५०) तमे क्रिस्ताब्दे जनवरिमासे षड्विंशतितमे दिनाङ्के भारतं सार्वभौममहाराज्यत्वेन उद्घोषितम् । राजेन्द्रप्रसादमहोदयः अस्य महाराज्यस्य प्रथमः अध्यक्षः आसीत् । तदा भाषाणाम् आधारेण राज्यानां पुनर्विभागः कृतः । संविधानम् भारतदेशः प्रजाप्रभुत्वात्मकः । अत्र शासनार्थ संविधानं रचितम् । जगतः सर्वेभ्यः संविधानेभ्यः भारतसंविधानं बृहद्गात्रकम् । संविधानमेव देशस्य वरिष्ठं शासनम् । संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति । एतदर्थं केन्द्रे लोकसभा, राज्यसभा च राज्येषु विधानसभा विधानपरिषच्च वर्तन्ते । राष्ट्रस्य शासनाधिकारः राष्ट्रपतौ न्यस्तः । भारतदेशस्य राजधानी देहलीनगरम् । भारतस्य राष्ट्रध्वजः त्रिवर्णाङ्कितः तत्रोर्ध्वं केसरवर्णः, मध्ये श्वेतः, अधश्च हरितः । श्वेतवर्णभागे नीलम् अशोकचक्रं राजते । सिंहशीर्षमुद्रा राष्ट्र्चिह्नम् । तत्र 'सत्यमेव जयते’ इति ध्येयवाक्यम् उत्कीर्णम् । 'जनगणमन’इति गीतं राष्ट्रगीतम् । राष्ट्रप्राणी व्याघ्रः । राष्ट्रपक्षी च मयूरः । नद्यः क्षेत्राणि प्रमुखजनाश्च भारते गङगा, यमुना, सिन्धू, नर्मदा, गोदावरी,कपिला, गजकर्णिका, ब्रह्मपुत्रा, कावेरी इत्यादयः नद्यः प्रवहन्ति । एताः सर्वाः अपि नद्यः जलेन भूमिं सिञ्चन्ति । अतः सुजला, सुफला, सस्यश्यामला च भारतभूमिः । एतस्मिन् देशे दिलीपः, दशरथः, युधिष्ठिरः इत्यादयः धर्मपरिपालकाः पौराणिकाः राजानः आसन् । अशोकादयः प्रजाहितचिन्तकाः राजानः च अभवन् । एतेषां कीर्तिः अद्यापि जगति समुल्लसति । अस्मिन् देशे ऋषयः मुनयश्च आसन् । ऋषयः मन्त्रद्रष्टारः । ते परमज्ञानं प्राप्तवन्तः । वेदेषु तत् ज्ञानं निबद्धम् । अतः अस्माकं देशः वेदभूमिः इति विख्यातः । वाल्मीकिव्यासादयश्च मुनयः इतिहासपुराणादीन् ग्रन्थान् रचितवन्तः । भारतं पुण्यभूमिः । अत्र राम-कृष्णादयः अवतारपुरुषाः, शङ्कर-रामानुज-बसवेश्वर-मध्वादयः धर्मोपदेशकाः आचार्याः समभवन् । बुद्ध-महावीरादयः अत्रैव अहिंसातत्त्वम् उपादिशन् । राष्ट्रपिता महात्मागान्धी अहिंसामार्गेणैव स्वातन्त्र्यं प्रापयत । भारते अनेकानि पुण्यक्षेत्राणि विद्यन्ते । तेषु काशी-गोकर्णम्-उडुपि-तिरुपति -श्रृङ्गेरी प्रभृतीनि च प्रसिद्धानि । राष्ट्रगीतम् १९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण । १९१९ तमवर्षे कविः एषःबेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा । फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् । मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके । १९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवाहरलाल नेह्रू यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि । शताब्दोत्सवः १९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण । १९१९ तमवर्षे कविः एषः बेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा । फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् । मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तानन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः बहुगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके । १९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवहरलालनेहरु यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि । भारतं मतनिरपेक्षं राष्ट्रम् । अत्र अनेकानि मतानि, अनेकाश्च भाषाः सन्ति । मतभेदेन आचारभेदश्च वर्तते । तथापि वयं सर्वे भारतीयाः । अतः सौहार्देन वसामः । भारतम् अनेकभाषाणां देशः । अष्टशताधिकाः भाषाः अत्र सन्ति । तत्र संस्कृतभाषा प्राचीनतमा । सा बहुभाषाणां जननी, कासाञ्चन भाषाणां पोषयित्री च अस्ति । संस्कृतवाङ्मये विविधानिं शास्त्राणि, रम्याणि काव्यानि अपूर्वाश्च विज्ञानविषयाः सन्ति । गौतमः, जैमिनिः, पाणिनिः इत्यादयः संस्कृतकवयः प्रसिद्धाः । विज्ञानेऽपि कणादः चरकः वराहमिहिरः, आर्यभटः इत्या प्रख्याताः । पुण्यतमा, सर्वसम्पत्समृद्धा भारतभूमिः अस्माकं जन्मभूमिः । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इत्यतः सा वन्दनीया । जयतात् भारतमाता। भारतम् एशियामहाद्वीपे दक्षिणे एकः स्वतन्त्रः समाजवादी पन्थनिरपेक्षः लोकतन्त्रगणतन्त्रदेशः अस्ति । एतद् विश्वस्य विशालं लोकतन्त्रम् । अस्य जनसङ्ख्या १२० कोटिमिता, भाषाः शताधिकाः । भारतवर्षस्‍य उत्तरदिशि पर्वतराजः हिमालयः अस्‍ति, दक्षिणे हिन्दुमहासागरः अस्‍ति । भारतस्य उत्तरे नेपाल चीनः (तिब्बत्) च देशा: सन्ति । पश्चिमे पाकिस्थानम् अफगानिस्थानं देशौ स्तः । पूर्वे ब्रह्मादेशः (म्यान्मार्), दक्षिणे श्रीलङ्का मालाद्वीपः देशौ सन्ति । कुष्णद्वीप-निकोबारद्वीपयोः निकटे इण्डोनेशिया थाईलेण्ड् च देशौ स्तः । भारतस्य राजधानी नवदेहली अस्ति । अन्यमुख्यनगराणि मुम्बई, कोलकाता, बेङ्गलुरु, चेन्नै, पुणे च सन्ति । भारते अष्टाविंशतिः राज्यानि सन्ति । भारतीयसंस्कृतिः पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् ।भारतं धार्मिकविविधतायाः कारणेन उल्लेखनीयम् अस्ति, हिन्दुधर्मः, बौद्धधर्मः, सिखधर्मः, इस्लामधर्मः, ईसाईधर्मः, जैनधर्मः च राष्ट्रस्य प्रमुखधर्मेषु अन्यतमाः सन्ति । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन । भारतीये संविधाने 22 भाषाः अनुसूचिताः सन्ति। राज्यानि केन्द्रशासितप्रदेशाः च भारते २८ राज्यानि ८ केन्द्रशासिताप्रदेशा: च सन्ति । अस्मिन् देशे विविधमतानुयायिनः परस्परं सौहार्देन जीवन्ति । राष्ट्रियम् भारतस्य राष्ट्रियगीतम् जन गण मन गुरुदेव रवीन्द्रनाथ ठाकुरवर्येण लिखितम् । भारतस्य राष्ट्रियं गीतं वन्दे मातरम् बङ्किमचंद्र- चटर्जीवर्येन लिखितम् | चित्रशाला आधारग्रन्था: भारतम् भारतसमाचार ग्रन्थि: राष्ट्रिय ग़ीत उल्लेखाः सार्क् राष्ट्राणि एशियाखण्डस्य राष्ट्राणि परिशीलनीयानि भारतम्
821
https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A4%BE
भाषा
भाषा संकेतम् इनकोडम्, डीकोडम् च कृतुम् साधनम् अस्ति। जन्तवः सङ्गणकाणि च भाषायाः उपयोगम् करोतः। सामान्यतः जन्तुनाम् भाषाः प्राकृत्तिकाः सन्ति। परन्तु संगणकस्य भाषाः कृत्रिमाः एव सन्ति। कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लोजबानम्, इन्टरलिङ्वा, इडो, इतियादवः उदाहरणानि सन्ति। संस्कृतम् विश्वस्य प्रथमः विकसितः भाषा अस्ति। संस्कृतात् एव अन्य विकसिताः आर्यभाषाः अजन्मत्, अतः संस्कृतम् भाषानाम् माता अस्ति। संस्कृतम् देवभाषा अपि अस्ति। महत्त्वम् भाषा हि जनानां भावाभिव्यक्तये सशक्त साधनम् । अन्यैरपि चेष्टादभिः साधनैर्भावाभिव्यक्तिस्तु सम्भवति किन्तु न तत्र सम्पूर्णता सम्भवति । भाषेवसो शक्तिर्यया मनुष्यः पशुतो भिद्यते तेनैव वाङ्नाम दैवी शक्तिः । भाषा हि - समुदायस्य महान् वानिधिः । उक्तमेव 'तां विश्वरूपाः पशवो वदन्ति' इति । |.. विश्वरूपाः इति समुदायसम्बद्धाः, पशव इति प्राणिन उपलक्षणाज्जनाः, वदन्ति इति सुखेनोच्चारणं कुर्वन्ति । अनेन भाषायाः स्वरूपं व्याख्यातं मवति यथा भाषा नाम सा वाक् या खलु कण्ठताल्वादिभिरुच्चारणस्थानैरुच्चार्यते, या च केनचित्समुदायेन भावस्य स्पष्टाभिव्यक्तये प्रयुज्यते इति । अर्थात् उच्चारणा। वयवेभ्यः समुच्चरितानां सार्थकध्वनिसमूहानां समष्टिरेव भाषा भण्यते । भाषातत्त्वानि अनेन भाषात्वसिद्धये चतुर्णा तत्वानामुपस्थितिरावश्यकी भवति । तानि चेमानि भवन्ति-- जनानां मुखताल्वादिभ्य उच्चारणावयवेभ्यः समुच्चारितानां सार्थक- । ध्वनिसमुदायानां समष्टिरेव भाषा भवति, ताञ्च कश्चित्समुदायः स्वगतभावानां समग्राभिव्यक्तये प्रयुनक्ति, । | * तस्याश्च का विशिष्टा प्रक्रिया भवति या विवेचनीया निरूपणीया ।। च भवति तस्याश्चैकं सार्वजनीनं स्वरूपं भवति यस्यः कश्चिन्निश्चितो नियमो नियामको भवति । सा च समुदायस्य भावसम्बद्धत्वात्सततपरिवर्तनशीला विकासोन्मुखी भवति । तादशश्च परिवर्तनमपि नियमत एव भवति न तु यथेच्छमिति । तादृशीं मनुष्यमात्रस्य सम्पद्भताऽनन्यप्राणिलभ्यां भाषा कथमुदैदिति विषये भाषाविदः परस्परं मंतपार्थक्यं जनयन्ति । केचिज्जनैः सम्भूय व्यवहारसौकर्याय भाषोत्पादितेति कथयन्ति किन्तु ते विस्मरन्ति यद्यदा भाषा नैवासीतदा जनाः कथं सम्भूताः कथञ्च ते परस्परं मन्त्रयाञ्चक्रुरिति । तेन मतमिदं नितान्तमेवाग्राह्यम् । केचित्तु भाषामीश्वरोत्पादितां मन्यन्ते तदपि । चिन्त्यमेव येतो यदि भाषेश्वरकृता भवेत्तदा तस्याः विश्वजनीनत्वं भवेत्। । किन्तु तथ्यं तद्विपरीतमेव । प्रतिसमुदायं भाषा भिद्यत एव तत्रापि प्रतिजाति तु भाषा परस्परासम्बद्धत्वेन भिद्यते अपरञ्चेश्वरकृताया भाषायाः कथं परिवर्तनधर्भसम्भवः । भाषा तु नितान्तपरिवर्तनशीला दृश्यते । विकासक्रमः केचिद्भाषां क्रमेण विकसित मन्यन्ते । आदौ मनुष्य एकाकी विचरन्नासीत् । आकस्मिकमैथुनधर्मेण तस्य सङ्ख्या व्यवर्धत । कालान्तरे जीवनसौकर्याय तेन सामूहिक जीवनमारब्धम् । समानशीलाः समानं समुदायमवलम्ब्य स्थातुं प्रवृत्ताः । समूहजीवनेन सहैव परस्परं विचारविनिमयस्यावश्यकतोदगात् । प्रेथमं . तु तच्चेष्टादिभिरभूर्तसाधनैः समपद्यत किन्तु यथा यथा व्यवहारस्य जंटिलताः । वृद्धिमाप्ता तथा तथा चेष्टादिसाधनानि विचारविनिमयाय नितान्तमपर्याप्तानि सञ्जातानि । अपरञ्चान्धकारे चेष्टादीनां न तथोपयोगिता सिध्यति । तेन जनैविचारविनिमयाय ध्वनिप्रयोगः समारब्धः । आदौ ध्वनिरपि अस्पष्टोऽव्यक्तार्थ : श्चासीत् । अधुनाऽपि केऽचित्पर्वतप्रदेशेषु अव्यक्तध्वनिना विचारस्य कश्चिदंशः प्रकटौक्रियते । व्यतीते च काले सम्प्रवृत्ते च जटिलव्यवहारे तेनाऽपि नैव कार्यसमापन समपद्यत । क्रमशस्तादृशेषु ध्वनिषु अर्थसमावेशःसमारब्धः अस्माच्छब्दादयम. वैतद्वस्तु बौद्धव्यमिति सङ्केतनपरम्परा समुदिता । तत्रापि : प्रायः शब्दा असंयुक्ता एकाक्षरिण एवासन् । तान्वयमधुना धातुसंज्ञया व्यवहरामो यथा भू-वा-या-पा इत्यादयः । कालान्तरे बर्धमानव्यवहारापेक्षया शब्दराशेरावश्यकता समजायत । ततश्च तेष्वेव यं कञ्चिदंशं संयोज्य नवा नवाः शब्दाः निमिताः। ततश्चानेन क्रमेण भाषाऽस्तित्वमागता ।-समुदायविशेषेणैव स्वानुकूलमाविष्कृतत्वात्सा प्रतिसमुदाय भिद्यत इति । क्रीस्तधर्मग्रन्थों बाइबलमपि तथ्यमेवेदं समर्थयति । तदनुसारेण यदा इतरप्राणिसर्जनेनेश्वरो नैव सन्तुष्ट स्तदाऽन्ते स मनुष्यं सृष्टवान् । तं दृष्ट्वा च स परमप्रीतो बभूव । तमाशिभिः । संबध्यै स स्वसृष्टानां पदार्थानां नामकरणाय तमादिदेशः । मनुष्यो यं येना । ह्वयत्स तस्य नामाऽभूत् । इत्यञ्च भाषा समुदिता। तदा ईश्वरोऽचिन्तयधत्तस्य प्रियंमात्रं मनुष्य एकाकी वर्तते । एकाकी न रमते कोऽपि । तेन से ते निद्रा ददौ । निद्रितस्य शरीरादस्थिमांसंभागमादाय नारीं सृष्टबान्।।। यतः सी नेरशरीरांदंशमादाय सृष्टेति सा नारी नरस्यार्धाङ्गिनी । ततश्च तौ परस्परं ध्वनि साहाय्येनं, संल्लापमारेभतुर्यस्य विकसितं रूपमेव भाषा समजायत । यदाच. मनुष्याः पूर्वतः पश्चिम दिशं प्रति गतास्तदा, जगत्येको एव भाषाऽऽसीद्यञ्च सीमिता शब्दा एवीसनु। क्रमश, आवश्यकतानुसारेण शब्दनिधिवृद्धि प्रापित इति । भारतीयपरम्पराऽपि 'दैवी वाचमजनयन्त देवास्तां विश्वरूपाः पशवों वदन्ति इत्याद्युक्त्वा भाषां देवतोत्पदिता कमेण मनुष्यै हीतां मन्यते । ऋषयः खलु शब्ददर्शको अर्थनिरकाश्च। अस्माच्छब्दादयमर्यों बोद्धव्य इति ईश्वरेच्छव शब्दशक्तिरिति देवतायत्ता भाषा एकैवाऽऽसीत् किन्तु यदा सा मनुष्यगृहीता तेषामल्पबुद्धित्वात्साधि २ मिन्ना जाता । भाषोत्पत्ति विकासवादिनः सत्यस्य नैक किन्त तेऽपि न यथार्थमाप्तुं समर्थ है हि एतद्विस्मरन्ति यन्नैमित्तिक ज्ञानं विना न किमपि सिध्यति । यदि स्वतः ज्ञानेन सर्वं सिध्येत्तदा मपदा सर्वोऽपि समुदायः समानेनैव रूपेण क्किसितः स्यात् । I'S ११ उ तत्प्रतिकूलम् । तादशनैमित्तिकज्ञानं तु ईश्वरसिद्धमेव । स्याद्ययार्थं यद्वा तद्वा भाषा " भाषाव्यवहारे विकासवादिमतं सदोपेक्षणीयं सम्भवति । दतव स्यात्किन्तु' तद्विकासस्तु क्रमेणावश्यकतानुसारमेव सञ्जातोऽन्यथा शवतिगतिकर्मा कम्बोजेष्वेव न सीमितो भवेत् । लवनाथं प्राच्येषु. प्रसिद्धो दातिरुदीच्येषु दात्र न भवेत् । महान् हि शब्दस्य प्रयोगविषयः । स हि एकदा कदाचिदपि सिंह, सिद्धो न भवितुर्महति । अयं विकासस्यैव परिणामः ।। भाषोत्पत्तिविषये भारतीयपरम्परा काचिद्विशिष्टैव विचारणा रक्षति । तदनुसार वाङ्नाम अनादिनिधना नया च या स्वयम्भवा आदौ वेदमयी वाचमजनयन्त तां विश्वः प्रवृत्तयः समुद्भता इति । एवमेव देवाः प्रथमं दैवीं एवेव लोकेषु त्रीणि पशुषविश्वरूपाः पशवो वदन्ति । स वै सृष्टी चतुर्धा व्यभवत् । एतेषु तुरीयमिति। तस्माद्वाह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुयुष्याणामिति । तेन वेदाधारेणैव लौकिकभाषा विकसिताऽअवदिति । वृहस्पतिः प्रथमं वाचं ददर्श । स हि देवतार्थं तामंगृह्णादिति तत्र वेदेषु कथ्यते । वाग्वै प्रथममखण्डाऽऽसीत। तत्र सौकर्यायेन्द्रो मध्यतोऽवक्रम्य कतिप्रत्ययादिविभागेन व्याकरोत् । उक्तमेव - ‘तामखण्डां वाचं मध्ये विच्छिा प्रकतिप्रत्ययविभागं सर्वत्राऽकरोत्' इति । । एवमेव - तामिन्द्रो मध्यतोऽवक्रमम्य याकृतोऽवदत् । ते देवा इन्द्रमब्रुवन् इमां नो वाचं व्याकुवति । व्याकरोदिति । तत्र हि खलु - सर्वेषां स तु नामानि कर्माणि च पृथक्-पृथक् । वेदशब्देश्य एवादौ पृथक् संस्थाश्च निर्ममे इत्यपि मन्यते । नैतावन्मात्रमपितु एतावदपि मन्यते यदा साधुशब्दाः साधुशब्दच्छात्वेनैवार्थबोधकाः किन्तु भर्तृहरिस्तु तेषां साधुशंब्दवाचकतां नैव स्वीकरोति साधुशब्दज्ञानविहीनानामपि तेभ्योऽर्थबोधदृष्टेः । पुनश्च वयं भाषाविषयं विकासवादेन संयोज्याग्रिमं वक्तव्यं ब्रूमः । कामं भाषा संविदुत्पन्ना, ईश्वरनिदष्टा वा क्रमेण विकसिता वा भवेत्किन्तु तस्याः क्रमिकविकासस्तु न केनाप्यलपितुं शक्यते। एकाक्षरात्मकशब्दादेकाधिकाक्षरात्मक शब्दनिर्माण, एकार्थकबोधकशब्दोदनेकार्थवाचकत्वोत्पत्तिः वर्णागमः, वर्णविपर्ययः, वर्णविकारः, वर्णलोपश्च क्रमिकविकासस्यैव लक्षणानीति सर्वैः स्वीकर्तव्यमेव । कामं दण्डादण्डि वायुद्धं प्रवर्तेत किन्तु वेदसम्बद्धशब्दानामपि.मूलरूपं प्रथममेव : तथैवाऽऽसीदिति तु वयं विश्वसितुं नैव समर्थाः । वयन्तु तदपि भाषाया : विकसितं रूपमेव मन्यामहे यदि तथाकथने जिह्वा नैवापकृष्यते । किञ्च वयं वेदार्थमेव भाषां गृह्णीमो न तु भाषार्थ वेदान् । वेदाः प्राचीनतमा; पवित्रा ब्रह्मणो वाच इति न वयमपि विमुखास्तत्वतः किन्तु वैदिकशब्दा अपि कुमेण विकसिता इति तु तथ्यमपि नैवापलयामः । नित्यत्वं तु शब्दानामेव प्रकृतिप्रत्ययविभागस्तु कृत्रिमः । झिविभक्तिं कल्पयित्वा 'झोऽन्तः' इंति पठने प्रथममेव अन्ति इति पठने च नैव भेदो भवति पदनिमित्तम् । नित्यं तु भवन्ति एव कामं कश्चित्तत्केनाऽप्युपायेन साधयेत्। संस्कृतम् देवभाषा हि संस्कृतपदेनाभिधीयते इत्याचार्याः । 'संस्कृतं नाम दैवी वागन्वाख्याता मनीषिभिः' इति वचनात् । तस्य संस्कृतामिधानं प्रकृतिप्रत्यादिविभागैः संस्कृतत्वादिति मन्यते । इदमुच्यते यत्प्रथमं भाषा नितान्तमव्याकृताऽखण्डैवाऽऽसीत् ।सा च प्रतिपदपाठेनैबोपदिश्यते स्म । कथ्यते यद्वृहस्पतिरिन्द्राय दिव्यवर्षसहस्रं प्रतिपदोक्तानां शब्दानां पारायणं प्रोवाच' इति । तेन तदध्ययने महान परिश्रमः कालक्षयश्च आवश्यक आसीत् । तेन देवा इमां नो वाचं व्याकुरु'इति इन्द्रं 'प्रार्थयामासुः । इन्द्रश्च तां मध्यतोऽवक्रम्य प्रकृतिप्रत्ययविभागेन व्याकरोदिति । तेनैवेत्थं व्याकृतत्वादस्य संस्कृतमिति नाम सञ्जातमिति । ननु प्रकृतिप्रत्ययविभागस्तु अन्यास्वपि भाषासु भवत्येव । तेन कथं देवभाषैव संस्कृतमिति नाशङ्कितव्यम् । तस्यास्तथाभिधानं सर्वप्रथमत्वेन व्याकृतत्वात् । यद्यप्य" भिधानमिद लौकिकसाहित्ये एव दश्यते सम्मवतो भाषावबोधकत्वेन प्रथमभरतनाट्यशास्त्र एव तथाप्यस्य सम्बन्धो वैदिकपदै.सहापि नापलपितुं शक्यः । तदेतत्पर्यवस्यति यद्भाषा प्रथममखण्डाऽव्याकृता चासीत् । तस्य च व्याकृतं साहित्यिक रूपं संस्कृतपदेनाऽप्यभिधीयते । तत्संस्कृतरूपमनुमातुमशक्तैरभिधातृमिरवकीर्णं सत्प्राकृतं सजातम् । यथाऽऽह भर्तृहरिर्वाक्यपदीये - दैवी वांगवकीर्णेय मशक्त रभिधातृमिः । इति । एवमेव नाट्यशास्त्रेऽप्युक्तं - “एतदेव बिपर्यस्तं संस्कारगुणवजितम् । विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ।' तेनदेमवधेयं यद्द वभाषाया व्याकृतं स्वरूपं संस्कृतमवकीर्णञ्च स्वरूपं प्राकृतमिति । अनेनैवाशयेनोक्त' भवेत् - प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतमिति । अन्यथा व्याकरणनियमबद्धाया भाषायाः परिवर्तनं वा विकारः कथं कल्पितः स्यात् ।' । उक्तमेव वाक्यपदीयस्य स्वोपज्ञवृत्तौ ‘प्रकृतौ भवं प्राकृतं साधूनां शब्दानाम् । '' इति । तेनैव लौकिकसंस्कृतापेक्षया वैदिकभाषया सह प्राकृतभाषायाः । सान्निकट्यमपि एतदेव समर्थयति । यथां वेदे मूर्धन्यषकारस्य टवर्गसंयुक्तव खकारवदुच्चारणं यथा ‘प्रथमो दैव्यो भिषक' श्त्यत्र भिषक्पदे । प्राकृतेऽपि भिख- ।। .: गिति । लौकिकसंस्कृते तु भिषगेव ! यथैव सूर्यस्य वेदे सूज्य इत्युच्चारणं तथैव । प्राकृतेऽपि, यदा इत्यस्य वेदे ज्यदा इत्युच्चारणं प्राकृते जदा इति, यमित्यस्य । वेदे ज्यमिति प्राकृते ‘जम्' इत्युच्चारणम् । तथैव वेदे न पदभक्तिः प्राकृतेऽपि तथैव । वेदे प्रतिपालिता स्वरभक्तिः प्राकृतेऽपि तथैव । संस्कृतस्य क्लिष्टत्वं संश्लेषणात्मकत्वञ्ब प्राकृतं नैव गृह्णातिं । लौकिकसंस्कृते अप्रथुक्तानामपि वैदिकशब्दांनों प्राकृते तत्समत्वेन वा तद्विकृतित्वेन प्रयोगश्चेदमेव तथ्यं सूचयति । ' तदित्थं वेदसम्मताऽपि. भाषा कालान्तरेण वर्णागमवर्णलोपवर्णविपर्यय। अर्थसङ्कोचविस्तारपार्थक्यादिभाषाविकारनियमैरवक्रान्ता प्रवर्धमानप्राकृतप्रयोग-समवकीर्णा च पुनर्वैयाकरणैः समयानुकूलं परिष्कृता सती लौकिकसंस्कृतसंज्ञां लेभे । तेनैव पाणिनिस्तां भाषाशब्देन लौकिकशब्देन च गृह्णाति । ‘भाषायां सद' ‘सर्वत्र विभाषा गोः' इत्यादिवाक्यैः ।लोकशब्दश्चोत्र, जनसामान्यवचनपरः । तत्र तत्र वैदिकशब्दानां कृते पृथगेव सूत्राण्यपि रचितानि यानि प्रक्रियाकौमुदीषु वैदिकप्रक्रिया नाम्ना पृथक् सङ्गृहीतानि । वैदिकशब्देषु प्राकृतशब्दसम्मिश्रणादेव लौकिकसंस्कृतं समुत्पन्नम् । एवमेब कौकिकसंस्कृतेऽपि प्राकृतप्रभावप्रवेशादेव शाखाः सञ्जाताः । तादृशप्रतिशाखप्रचलितरूपाणि सङ्गृह्य पाणिनिना तस्य परिनिष्ठितं रूपं निरूपितम्। तत्रापि यदनुक्त वा दुरुक्त' वा तद्वतककारेण साधितं 'यवनाल्लिप्याम् । इत्यादिभिर्वातकैः । तच्च महाभाष्यकारेण सर्वं सङ्गृह्य स्थिरीकृतमिति साम्प्रतिको संस्कृतभाषा मुनित्रयप्रसादाप्तेति रहस्यम् । इयमेव देवभाषा सर्वविधभाषा जननी ।तामेव पाश्चात्या विचक्षणी ‘भारोपोय' शब्देनाह्वयन्ति । संज्ञा तु या काऽपि स्याद्भारोपीयो भारतेरानीया, वाऽन्यांपि, मूलतत्वं तु , सैव देववाणी या तामनुकर्तुमशक्त: स्वानुकूल्येन पृथग्रूपेणोच्चार्यते। 'दुहितर्' इति सम्यगुच्चारितुमशक्त : ‘डटर्' इति कथनमात्रेण तस्य मूलरूपं तु नैव विपद्यते । हेमदत्तस्य ‘हेल्मट' इति लक्ष्मीदत्तस्य ‘स्मिथ इति, कामं कश्चिद् ब्रूपात् किन्तु तल्लेखने तु तेऽपि हेमदत्त एव लिखन्ति । संस्कृतभाषा केवलं साहित्यिकभाषेवाऽऽसीन्न तु व्यवहारभाषेति केचन निरर्गलं तर्कमप्युपस्थापयन्ति स्ववैचक्षण्यप्रदर्शनाय । किन्तु तथ्यं तद्विपरीतमेव । संस्कृतं हि प्राचीनकाले नितान्तमेव व्यावहारिकी भाषाऽप्यासीदिति बहुविधप्रमाणतो ज्ञायते । प्रथमन्तु तस्य शाखावत्वमेव प्रमाणम् । सामान्यतः परिवर्तशीलत्वमेव जीवितभाषाया भाषितभाषायाश्च लक्षणम् । यदि संस्कृतं हि भाषितभाषा न स्यात्तदा तत्र विकासोऽपि न स्यान्नचार्थविस्तार सोचावधि नैव च शाखाभेदः किन्तु संस्कृते एषां सर्वेषामेव समुपस्थितेः प्राक्काले संस्कृत भाषितभाषा आसीदिति स्पष्टमेव कामं तस्य प्रादेशिकता सीमिता आसीन। वाल्मीकिरामायणाज्ज्ञायते यत्तदा द्विजातयः (त्रयो वर्णाः) संस्कृतां नित दन्ति स्म । तत्समये द्विजातिप्रयुक्त तरजातिप्रयु क्तभाषयोरन्तरमासीत् । . तिप्रयुक्ता भाषा देवभाषेवाऽऽसीत् मनुष्यप्रयुक्ता तु तद्भिन्ना मानुषी सं अशोकवनप्राप्तो हनुमान् विचिन्तयति - अहं ह्यतितनुश्चैव वानरश्च विशेषतः बाचञ्चोदाहरिष्यामि मानुषीमिह संस्कृताम् । यदि बाचं प्रदास्यामि द्विजातिरिव संस्कृताम् रावणं मन्यमाना मां सीता भीता भविष्यति।। इति। यदि अहं द्विजातिरिव संस्कृतां वाचं ब्रवामित मां रावणं मत्वा भीता भविष्यति । तेनाहं मानुषीमेव किन्त वाचं वच्मीत्यस्याशयः । अनेनैतदपि सिध्यति यत्कामं मा थगेवाऽऽसीत्किन्तु तस्या अपि द्वे रूपे अ रस्तां संस्कृतम मानुषीभाषाभाषिणोऽपि द्विजातिभाषां संस्कृतं सम्यग्जानन्ति व रामायणे ‘बहु, व्याहरताऽनेन न किञ्चिदपशब्दितम्' भाषणे साधुशब्दानामपशब्दानाञ्च प्रयोगस्य प्रचलनं तथैव इत धुशब्दज्ञानं सिध्यति । 'विषयेऽस्मिन् बिश्वनाथाचार्यः कथयति "या भाषा सम्भाषणेषु प्रयुज्यते तत्र परिवर्तन स्वाभाविकमेव । वैदिकलौकिकसंस्कृतंयोः । परस्परसादृश्यं विलोक्य लौकिकसंस्कृतं वैदिकसंस्कृतस्यैव रूपान्तरमिति ।। प्रतिभाति । भाषापरिवर्तनेन सह तद्वयाकरणस्यापि परिवर्तनं सुनिश्चितम् । वैदिकलौकिकसंस्कृतव्याकरणयोस्तुलनया द्वयोरप्येतयोभषयोर्भेदज्ञानं भवत्येव इति । स च संस्कृतभाषा पतञ्जलिकालपर्यन्तमपि जनभाषाऽऽसीत् । तदनन्तरं सा शिष्टानामेव भाषात्वेनावशिष्टा। केचन वैदिकी भाषा कदाचित्सम्भाषणे नाऽऽसीत् । सा तु वेदवदनादिरपौरुषेया चेति मंन्यन्ते किन्तु तच्विन्त्यमेव यतो वेदे एंव ‘तां विश्वरूपा पशवो वदन्ति' “तस्माद् ब्राह्मणा उभय वाचं क्दन्ति, या च देवानां या च मनुष्याणामिति इत्यादि कथनात् तस्याः भाषितभाषात्वं सिध्यत्येव । कि यथेमां वाचं कल्याण आवदानि जनेभ्यः''; “सङ्गच्छध्वं संवदध्वं” इत्यादिकथनमभाषितभाषायामुपयुज्यते । कदापि नैव । यास्कादारभ्य सर्वै एव प्राञ्चो वैयाकरणाः संस्कृत भाषापदेन व्यपदिशन्ति । भाषितत्वमेव भाषाया भाषात्वम् । इराह्वयने अन्तिमः स्वरः। प्लुतो भवति इति भाषितभाषायी लक्षणं विहाय किमन्यत् ? कम्बोजेष्वेवेति । कि संस्थितभाषालक्षणम् ? यदि संस्कृतं न जनभाषा, भवेत्तदा पालिपालिता बौद्धाः किनिमित्तं संस्कृते ग्रन्थाः प्रणयेयुः ? स्वयमेवाश्वघोषः पालि विहाय संस्कृते काव्यं प्रणिनाय । शिलालेखानां नवतिप्रतिशतभागो राजशासनानां तदधिकप्रतिशतभागः संस्कृते एव लिखितो दृश्यते इति परं प्रमाणं संस्कृतस्य भाषितभाषात्वे । अभिनयार्थं प्रणीतेषु नाटकेषु प्रयुक्ता भाषा कथन्नाम भाषितेतरा भवेत् । पाणिनिः संस्कृतशब्दानां प्राच्यौदीच्यदाक्षिणात्यरूपाणि स्मरति । तथा तु तदैव सम्भवति यद्रा सा भाषितावस्थाका भवेत् । एकस्यैव शब्दस्य एकाधिकरूपाण्यपि भाषितत्वमधिकृत्यैवं भवति तव, ते, मम, मे, मो, मा, गवाक् शब्दस्य तु नवाधिकशतरूपाणि च भाषायाः भाषितत्वस्यैव लक्षणम्।। व्याकरणानां बाहुल्यं तत्रापि मतान्तरं यथा 'लोपः शाकल्यस्य’, ‘अवङ् स्फोटायनस्य,' ‘ऋतो भारद्वाजस्य, चेत्यादि अपि भाषाया भाषितत्वस्यैव परिचायकम् । सर्वानतिशय्य सम्प्रसारणं यण्विकल्पश्च भाषाया जीवितत्वस्य परिचायकः । यण्विकल्पो यथा त्र्यम्बकं यजामहे, त्रियम्बकं संयमिनं ददर्श' इति ।। सम्प्रसारणं तु इग्यणः सम्प्रसारणम् । तथैव ‘पारम्पर्यादपभ्रशो विगुणेष्वाभिधातृषु' इति 'दैवी वाग्व्यवकीर्णेयमशक्त रभिधातृभिः', इत्यपि च भाषाया भाषितत्वस्यैव सूचकम् । पृषोदरादिव्यवस्थाऽपि भाषाया भाषितत्वं जनयति । न कुतोऽपि सिद्ध प्रयोगमागते च शब्दे, पृषोदरादित्वात्साधुरित्युच्यते । भाषायाः संस्थितत्वे काऽऽवश्यकताऽस्या व्यवस्थायाः । ‘पृषोदरादीनि यथोपदिष्टम् पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः इति । वर्णमांत्रभेदेन अर्थान्तरवाचकत्वमपि भाषितभाषाया एव लक्षणम् । संस्कृते तथाविधा बहवः शब्दा दृश्यन्ते यथा गर-गल-ग्रह-ग्लहशब्दाः । सर्वैव नामधातुप्रक्रिया जीवितभाषयामेव सम्भवति व्यवहारसौकर्याय अभाषितभाषायायनुनासिकनिरनुनासिकयोः को भेदः ? गुणे अर्परत्वञ्चोच्चारणसौकर्येणैव भवति । तदेतानि अन्यानि च प्रमाणानि संस्कृतभाषाया भाषितत्वं साधयन्ति । किर्यत्कालपर्यन्तमेषा भाषिताऽऽसीदित्यपरः प्रश्नः । सामान्यतो गौतमबुद्धसमये पालीभाषाया 'भाषितत्वं वौद्धग्रन्थतो ज्ञायते । तेन गौतमस्थितिकाले संस्कृतं हि शिष्टानामेव द्विजातीनां भाषितभाषाऽऽसीदिति स्वीकर्तव्यमेव । सम्भवति प्राचीनकालादेवं जनाः संस्कृतं तु जानन्ति स्म किन्तु व्यवहारे द्विजातयः संस्कृतां वाचमितरे तु मानुषीं वाचं पालीप्रभृति प्रयुञ्जन्ति स्मेति तथ्यविश्लेषणतो ज्ञायते । शनैः शनैः संस्कृतभाषा द्विजातिष्वेव सीमिता सञ्ज़ाता। द्विजातयोऽपि परस्परालापे संस्कृतस्य इतरैः सहाला मनुष्याः प्रयोगं कुवन्ति स्मेति 'तस्माद् ब्राह्मणा उभयीं याचं वदन्ति या च देवानां या च मनुष्याणाम्' इति निरुक्तवचनात् ज्ञायते । पाणिनिकाले संस्कृतं नितान्तमेव शिष्टभाषात्वेनावशिष्टाऽऽसीत् । पतञ्जलिकाले भाषाया' मपभ्रंशस्य एतादृशं. बाहुल्यमासीद्यद् द्विजातयोऽपि तत्प्रमावादात्मानं नैव रक्षितुं समर्था आसन् इति ‘एकस्य शब्दस्य बहवोऽपभ्रशाः' इति पतञ्जलिवचनाज्ञायते । तेनैव स द्विजातिष्वपि ब्राह्मणेन नापभषितवै नापम्लेच्छितवै ‘इति. निदशति । पतञ्जल्यनन्तरं तु संस्कृतं केवलं पण्डितभाषैव समजायत । तस्य जनसामागान्यसम्पर्कः प्रायो विच्छिन्न एव । पुनश्च गुप्तकाले भोजसमये च संस्कृतस्य प्रचारस्तु सञ्जातः किन्तु तस्य जनसामान्यसम्पर्कस्तु, नैव पुनरुदितः । सम्प्रति तु पण्डितसमाजेऽपि विरला एवं जनाः संस्कृतमाश्रित्यं संल्लापं कुर्वन्ति । साम्प्रतिककाले संस्कृतस्य माहात्म्यं देशभाषासु गीयते संस्कृतस्य ग्रन्था देशभाषानाम्ना प्रकाशिता अपि दृश्यन्ते यथा ‘हिन्दी :: दशरूपकं' वा 'हिन्दो नाट्यशास्त्र'मित्यादि । प्रायः समस्ता एवं संस्कृतग्रन्थाः वेदाश्च देशभाषायामनूदिता अपि दृश्यन्ते । यत्र कुत्र तु देशभाषायाः संस्कृतस्य : पर्यायवाचककत्वमपि सम्मतं दृश्यते । काऽतःपरं विडम्बना संस्कृतस्य । अपरञ्च परीक्षासौकर्यदृष्ट्या पुस्तकानि खण्डीकृत्य . प्रकाश्यन्ते तान्यपि प्रश्नोत्तरसंहितया छिन्नाङ्गान्येव । आधुनिकपण्डितैर्यथामति व्याख्यायन्ते च । ग्रन्थाः तथाकरण क्वचित्तु व्याख्या मूलप्रतिगामिन्यपि दृश्यते । भवतु तावत् । । संस्कृतं हि आर्यजातेः प्राणभूता भाषा । अस्यामेव पूबैजना विचिन्तयन्ति विचारयन्ति स्म । आधुनिकास्तु देशभाषायां विचिन्तयन्ति तदेवानुद्य संस्कृतमाश्रित्यावतारयन्तीति । संस्कृतस्य मौलिकत्वं तु प्रणष्टमेव । संस्कृतस्य मूलवैशिण्टयसंरक्षणाथ पूर्वजनी हि दत्तजीवना असन् किन्तु सम्प्रति न कोऽपि तन्निमित्तं प्रयतत इति कस्य सहृदयस्य न दूयते चेतः । इदं प्रागेवोक्त यद्देवभाषा व्याकृतत्वात्संस्कृतामिधानं लेभे इति । इन्द्रो ह वै प्रथमो व्याकर्ता आसीदित्यपि उक्तमेव । आगामिप्रकरणे व्याकरणपरम्पराविषये किञ्चिद्वक्ष्यते । भाषाणां कुटुम्बाः भाषा कुटुम्बे समपूर्वजाणम् भाषा सन्ति। ताषु समगुणाः अस्ति। आर्यभाषाः महिष्ठः भाषाकुटुम्बः अस्ति। तायाम् ४७७ भाषाः, विश्वे ४६% जनाः तयाः वाचक सन्ति। लिपिः वयम् भाषाः लिपिभिः लिखामः। सर्वाणाम् भाषानाम् स्वकीयलिपिः नस्ति, अतः तथा भाषः परभाषायाः लिप्याः उपयोगम् करोति वा सा आलिखितम् न भवति। हिंद्याः स्वकीयलिपिः नस्ति, अतः सा संस्कृतस्य देवनागरीलिपिम् उपयोगम् करोति। सम्बद्धाः लेखाः भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम् सन्दर्भाः भाषा सारमञ्जूषा योजनीया‎
823
https://sa.wikipedia.org/wiki/%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%A8%E0%A4%BF%E0%A4%83
पाणिनिः
"पाणिनिः संस्कृतभाषाया महान् वैय्या(...TRUNCATED)
825
"https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%B8%E0%A4%BE%E0%A4%AF%E0%A4(...TRUNCATED)
व्यवसायः
"अधिकारी\n\nअभिकर्ता\n\nअभिनेता\n\nअभिनेत्(...TRUNCATED)
826
https://sa.wikipedia.org/wiki/%E0%A4%A6%E0%A4%BE%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%AE%E0%A5%8D
दाक्षम्
"दाक्षक:\n\nदाक्षकी\n\nयुग्मदण्डम्\n\nवियु(...TRUNCATED)
827
"https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A4%AE%E0%A5%8B%E0%A4%B9%E0%A4%A8%20%E0%A4%B8%E0(...TRUNCATED)
मनमोहन सिंह
"\n\nबाल्यजीवनं शिक्षणं गौरवाणि च \nपूर्(...TRUNCATED)
830
"https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0(...TRUNCATED)
भारतस्य प्रधानमन्त्रिणः
"\n\nबाह्यसम्पर्कः \n अधिकृतस्थानम्\n\nभार(...TRUNCATED)
833
"https://sa.wikipedia.org/wiki/%E0%A4%B0%E0%A4%B5%E0%A5%80%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4(...TRUNCATED)
रवीन्द्रनाथ ठाकुर
"रवीन्द्रनाथ ठाकुर ( ) (, , ) (७ मे १८६१- ७ आग(...TRUNCATED)

This dataset contains wikipedia sanskrit articles, corresponding to dump taken on 20-04-2024

Downloads last month
39
Edit dataset card